३४. धीरोद्धतधृष्टकनिष्ठो यथा—(राच. १९.६७)
जागर्षि जानकि ! विषीदसि किं विशेषा— दद्यापि तापसि ! न तं (तद्) न (वि)जहासि वाम्यम्।
धिग् दैवमेव मयि नाम वशंवदस्य विश्वप्रभोर्मम पुरः परिशोषमेषि॥ ५९॥
३५. धीरोद्धतासाधारणकनिष्ठो यथा—(वेसं. २.११)
तद् भीरुत्वं तव मम पुरः साहसानीदृशानि श्लाघा साऽस्मद््वपुषि विनयव्युत्क्रमेऽयेष रागः।
तच्चौदार्यं मयि जडमतौ चापले कोऽपि पन्थाः ख्याते तस्मिन् वितमसि कुले जन्म कौलीनमेतत्॥ ६०॥
३६. धीरोद्धतसाधारणकनिष्ठो यथा—
जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं॰॥ ६१॥
३७. धीरोद्धतासाधारणानुकूलकनिष्ठो यथा—(मामा. ७.२)