भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 191 to 200 of 1849 verses
तमाशु विघ्‍नं तपसस्तपस्वी वनस्पतिं वज्र इवावरुध्य।

स्त्रीसन्निकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः॥ ५२॥

२८. धीरोद्धतसाधारणशठमध्यमो यथा—

राधा रोधसि यामुने परिसरे राधा लतावेश्मनां राधा तासु निशासु दत्तसमया राधा ध्वजस्योत्सवे।

इत्येवं समया श्रियं विलुठितः कण्ठोदरे शार्ङ्गिणो गीर्गुम्फः श्वसितानुमेयमहिमा राघामयः पातु वः॥ ५३॥

२९. धीरोद्धतासाधारणधृष्टमध्यमो यथा—(कुसं. ५.८३)

निर्वायतामालि ! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः।

न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्॥ ५४॥

३०. धीरोद्धतसाधारणधृष्टमध्यमो यथा—

त्वया क्षान्तं क्षान्तं कुरु मुखमितो मां प्रति कृतं निधेहीमं पृष्ठे मम करमयं कान्तनिहितः।

Showing 191 to 200 of 1849 verses