लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु॥ ५५॥
श्रुत्वा यं सहसा गतं निजपुरात् त्रासेन निर्गच्छतां शत्रूणामवरोधनैर्जललवप्रस्यन्दताम्यत्पुटाः ।
शुभ्रे वेश्मनि पल्लविन्युपवने वाप्यां नवाम्भोरुहि क्रीडाद्रौ च मुहुर्मुहुर्विवलितग्रीवैर्विमुक्ता दृशः॥ ५६॥
अज्ज वि हरी चमक्कइ कह कह वि ण मंदरेण दलिआइं।
चन्दकलाकंदलकोमलाइ लच्छीए अंगाइ॥ ५७॥
(अद्यापि हरिश्चमत्कृतः कथं कथमपि न मन्दरेण दलितानि।
चन्द्रकलाकन्दलकोमलानि लक्ष्म्या अङ्गानि॥)