हा वत्साः! खरदूषणत्रिशिरसो वध्यास्स्थ पापस्य मे हा हा वत्स विभीषण! त्वमपि मे कार्येण हेयः स्थितः।
हा मद्वत्सल वत्स रावण! महत् पश्यामि ते सङ्कटं वत्से केकसि! हा हताऽसि नचिरात् त्रीन् पुत्रकान् द्रक्ष्यसि॥ ६१॥
हेलाखण्डितचण्डहेमहरिणैर्बाणैः कुलं विद्विषां शेषीभूतविभीषणं गुणनिधौ कृत्वा तु रामे स्थिते।
प्रत्युज्जीवनशङ्कया यदचितो लङ्कापतेः कातरै— र्नो मुक्ताः कुसुमस्त्रजो न च सुरैरास्फालितो दुन्दुभिः॥ ६२॥
भयानुरागादिजन्मा चेष्टाप्रतिघातः स्तम्भः। तस्य
वामेतरस्तम्य भुजः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे।