भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 841 verses
संपर्को यथा—(मवीच. ४.११)

हा वत्साः! खरदूषणत्रिशिरसो वध्यास्स्थ पापस्य मे हा हा वत्स विभीषण! त्वमपि मे कार्येण हेयः स्थितः।

हा मद्वत्सल वत्स रावण! महत् पश्‍यामि ते सङ्कटं वत्से केकसि! हा हताऽसि नचिरात् त्रीन् पुत्रकान् द्रक्ष्यसि॥ ६१॥

अनुगमो यथा—(बारा. ९.५५)

हेलाखण्डितचण्डहेमहरिणैर्बाणैः कुलं विद्विषां शेषीभूतविभीषणं गुणनिधौ कृत्वा तु रामे स्थिते।

प्रत्युज्जीवनशङ्कया यदचितो लङ्कापतेः कातरै— र्नो मुक्‍ताः कुसुमस्त्रजो न च सुरैरास्फालितो दुन्दुभिः॥ ६२॥

(१६. स्तम्भः)

भयानुरागादिजन्मा चेष्टाप्रतिघातः स्तम्भः। तस्य

जन्म यथा—(रघु. २.३१)

वामेतरस्तम्य भुजः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे।

Showing 211 to 220 of 841 verses