संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्राप्नोति नेत्रोत्सवः।
यद्वालेन्दुकलोच्चयादपचितैः सारैरिवोत्पादितं तत् पश्येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ४९॥
कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रमलम्।
मुहुः पश्यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ५०॥
अनुवर्तिनी यथा—(मामा. २.२४)
न्यस्तालक्तकरक्तमाल्यवसना पाषाण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक् कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५१॥
अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः।