भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 481 verses
संभूयेव सुखानि चेतसि परं भूमानमातन्वते यत्रालोकपथावतारिणि रतिं प्राप्‍नोति नेत्रोत्सवः।

यद्वालेन्दुकलोच्‍चयादपचितैः सारैरिवोत्पादितं तत् पश्‍येयमनङ्गमङ्गलगृहं भूयोऽपि तस्या मुखम्॥ ४९॥

संपृक्ता यथा—

कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रमलम्।

मुहुः पश्‍यन् शृण्वन् रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिबृढः॥ ५०॥

अनुवर्तिनी यथा—(मामा. २.२४)

न्यस्तालक्तकरक्तमाल्यवसना पाषाण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।

सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक् कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५१॥

रसे जाता यथा—

अयं ते विद्रुमच्छायो मरुमार्ग इवाधरः।

Showing 211 to 220 of 481 verses