४९.(९.९) व्यत्यासो यथा—(माघस्येव)
प्रतिमूर्धजं निहितकर्णपूरका रभसेन हारपददत्तकाञ्चयः।
परिवर्तिताम्बरयुगा समापतन् वलयीकृतश्रवणकुण्डलाः स्त्रियः॥ ४४॥
५०.(९.१०) विपरिणामो यथा—(कुसं. ७.३२)
बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः।
उपान्तभागेषु च रोचनाङ्कः सिंहागजाजिनस्यैव दुकूलभावः॥ ४५॥
५१.(९.११) निमित्तं यथा—(रत्ना. १.२०)
प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ता।
विभ्राजसे मकरकेतनमर्चयन्ती बालप्रवालविटपिप्रभवा लतेव॥ ४६॥