५५.(९.१५) उपहारो यथा—(मामा. ५.२४)
न्यस्तालक्तकरक्तमाल्यवसना पाषण्डचण्डालयोः पापारम्भवतोर्मृगीव वृकयोर्भीरुर्गता गोचरम्।
सेयं भूरिवसोर्वसोरिव सुता मृत्योर्मुखे वर्तते हा धिक्कष्टमनिष्टमस्तकरुणः कोऽयं विधेः प्रक्रमः॥ ५०॥
५६.(९.१६) छलं यथा—(कुसं. ५.३०)
अथाजिनाषाढधरः प्रगल्भवाग् ज्वलन्निव ब्रह्ममयेन वर्चसा।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबन्धः प्रथमाश्रमो यथा॥ ५१॥
५७.(९.१७) छद्म यथा—(उरा. २.११)
जातं मे परुषेण भस्मरजसा तच्चन्दनोद्धूलनं हारो वक्षसि यज्ञसूत्रमुचितं चीनांशुकं वल्कलम्।
रुद्राक्षैः सकलैस्सरत्नवलयाः१ क्लिष्टा जटाकुन्तला— स्सीता२लोचनहारि कल्पितमहो रम्यं वपुः कामिनाम्३॥ ५२॥
५८.(९.१८) आश्रमो यथा—(उराच. ४.२०, पृ. ४६४)