गोरङ्गउ तरुणीअणो जोण्हाइं अहिसरइ सिअणेवच्छपडिच्छिउ वल्लहबद्धरइ।
तच्छाआहिं पुण चलिअउ सामलगत्तो तह मअणु मन्तिअहिं॥ ४७॥
(गौराङ्गस्तरुणीजनो ज्योत्स्नायामभिसरति सितनेपथ्यपरिच्छन्नो वल्लभबद्धरतिः।
तच्छायासु पुनश्चलितः श्यामलगात्रस्तत्र मदनो मन्त्र्यभूत्॥)
५३.(९.१३) सङ्ग्रामो यथा—(किराता. ३.५६)
अथाभिपश्यन्निव विद्विषः पुरः पुरोधसारोपितहेतिसंहतिः।
बभार रम्योऽपि वपुः स भीषणं गतः क्रियां मन्त्र इवाभिचारिकीम्॥ ४८॥
५४.(९.१४) विहारो यथा—(माघ. ८.३०)
शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गि वासः।
मार्द्वीकं प्रियतमसन्निधानमासन् नारीणामिति जलकेलिसाधनानि॥ ४९॥