आर्द्राः स्त्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभारेण तत्क्षणमसौ मणिभूषणानाम्॥ ४१॥
वासो जाम्बवपल्लवानि जघने गुञ्जास्त्रजो भूषणं हस्तस्वस्तिकदानमंशुकविधिर्धातुद्रवो मण्डनम्।
उत्तंसः शितिकण्ठपिञ्छलतिकावेषोऽयमल्पैर्दिनैः— र्यस्यारातिवधूजनेन शबरीसंवासतः शिक्षितः॥ ४२॥
४८.(९.८) अभिप्रायो यथा—(गास. २.७३)
सिहिपेहुणावअंसा वहुआ वाहस्स गव्विरी भमइ।
गअ-मोत्तिअ-रइअ-पसाहणाण मज्झे सवत्तीणं॥ ४३॥
(शिखिपिञ्छावतंसा वधूर्व्याधस्य गर्विणी भ्रमति।
गज-मौक्तिक-रचित-प्रसाधनानां मध्ये सपत्नीनाम्॥)