अनुवर्तिनी यथा—(विक्रमो. ३.१३)
यदयं रथसंक्षोभादंसेनांसो निपीडितः।
एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः॥ ४६॥
रूपे जाता यथा—(कुसं. ३.६७)
हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि॥ ४७॥
अनुबन्धिनी यथा—(मामा. १.३९)
जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः॥ ४८॥
प्रवृद्धा यथा—(मामा. ५.९)