म्लानस्य जीवकुसुमस्य विकासनानि संतर्पणानि सकलेन्द्रियमोहनानि।
आनन्दनानि हृदयैकरसायनानि (दिष्ट्या मया) परिगतानि वचोऽमृतानि॥ ३९॥
नैराश्यकातरधियो हरिणेक्षणायाः श्रुत्वा निकामकरुणं च मनोहरं च।
वात्सल्यदे/मोहपरिदेवितमुद्वहामि चिन्ताविषादविपदं च महोत्सवं च॥ ४०॥
अनुवर्तिनी यथा—(कुसं. ३.३८)
गीतान्तरेषु श्रमवारिलेशैः किंचित्समुच्छ्वासितपत्रशोभं (लेखम्)।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्ब॥ ४१॥
स्पर्शे जाता यथा—(काव्याद. २.११)
बध्नन्नङ्गेषु रोमाञ्चं कुर्वन् मनसि निर्वृतिम्।