नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते॥ ४२॥
अनुबन्धिनी यथा—(मामा. ४.८)
तन्मे मनः क्षिपति यत्सरसप्रहारमालेक्य मामगणितस्खलदुत्तरीया।
त्रस्तैकहायनकुरङ्गविलोलदृष्टिराश्लिष्टवत्यमृतसंवलितैरिवाङ्गैः॥ ४३॥
प्रवृद्धा यथा—(उराच. १.३५)
विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा प्रमादो प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ ४४॥
संपृक्ता यथा—(विक्रमो. ४.६८)
समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः॥ ४५॥