रौद्रादिजन्मा चित्तचमत्कारः त्रासः। तस्य
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयताम्॥ ५३॥
किं मुग्धे! शुकपञ्जरेण रसिके! किं शारिकान्वेषणे स्वच्छे! मुञ्चसि किं न चित्रफलकं किं वीणया रागिणि!।
नायं भूषणसंग्रहस्य समयो लीलावति! त्वर्यता— मित्यासन् पुरविद्रवे भवदरिस्त्रीणां वयस्यागिरः॥ ५४॥
प्रकर्षो यथा—(ध्व.लो. २.५/६)
स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु।