अनिष्टागमोत्प्रेक्षणं शङ्का। तस्या
दूराद्दवीयो धरणीधराभं यस्ताटकेयं तृणवद् व्यधूनोत्।
हन्ता सुबाहोरपि ताटकारिः स राजपुत्रो हृदि बाधते माम्॥ ५८॥
अनुबन्धो यथा—(मामा. ८.१३)
किमपि किमपि शङ्के मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि! पर्युत्सुकोऽस्मि।
कलयसि परि/कलितोषं वल्लभे! देहि वाचं भ्रमति हृदयमन्तर्विह्वलं निर्दयाऽसि॥ ५९॥
प्रकर्षो यथा—(मामा. ८.१२)
मम हि कुवलयाक्षीं प्रत्यनिष्टैकबुद्धे— रविरतमनुबन्धोत्कम्प एवान्तरात्मा।
स्फुरति च खलु चक्षुर्वाममेतच्च कष्टं वचनमिह भवत्योः सर्वथा हा हतोऽस्मि॥ ६०॥