सखीनां निर्बन्धान्मम च धृतपाणेः। प्रणमतः प्रिये ! का रुट् प्रीते मयि परमगूढास्तव रुषः॥ ५५॥
३१. धीरोद्धतानुकूलकनिष्ठो यथा—
स एष भुवनत्रयप्रथितसंयमः शङ्करः॥ ५६॥
३२. धीरोद्धतदक्षिणकनिष्ठो यथा—(अमरुक. ८१)
कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैरयममृतशून्यो(हृद्यो)ऽधररसः।
मुहुर्लग्नः कण्ठे तरलयति बाष्पः स्तनतटीं प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम्॥ ५७॥
३३. धीरोद्धतशठकनिष्ठो यथा—
आः सीते पतिगर्वविभ्रमभरभ्रान्तभ्रमद्बान्धव॰॥ ५८॥