रम्भोरु! संहर भयं क्षमते विकारमुत्कम्पिनः स्तनभरस्य न मध्यभागः।
इत्थं त्वयैव रचितः प्रणयप्रसादः सङ्कल्पनिर्वृतिषु संस्तुत एष दासः॥ ६२॥
३८. धीरोद्धतसाधारणानुकूलकनिष्ठो यथा—(उरा. २.२७)
वदत वदत सत्यं रूपमीदृक् कदाचिद् यदि पुनरबलाया दृष्टपूर्वं मुखादि।
जगति जितसमस्तारातिचक्रे यथेष्टं ननु किमिव न दृष्टं मत्प्रसादाद् भवद्भिः॥ ६३॥
३९. धीरोद्धतासाधारणदक्षिणकनिष्ठो यथा—(मेघ. १०८)
भूयश्चाह त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां लब्ध्वा किमपि रुदती सस्वरं विप्रबुद्धा।
सान्तर्हासं कथितमभवत् पृच्छातश्च त्वया मे दृष्टः स्वप्ने कितव! रमयन् कामापि त्वं मयेति॥ ६४॥
४०. धीरोद्धतसाधारणदक्षिणकनिष्ठो यथा—(गास. १.२२)
णववहुप्पेम्म—तणुइओ पणअं पढमघरिणीए रक्खंतो।