भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः॥ ६८॥
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम्।
पर्याक्षिपत् काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना॥ ६९॥
निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसितैः॥ ७०॥
इतिहासश्रवणं यथा—(किराता. ५.३३)
अस्मिन्नगृह्यत पिनाकभृता सलीलमाबद्धवेपथुरधीरविलोचनायाः।