विन्यस्तमङ्गलमहौषाधिरीश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः॥ ७१॥
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम् ।
मुहुर्बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत्सङ्गतमभूत्॥ ७२॥
देशस्त्वनेकधा, ग्रामपत्तनोपवनकान्तारपर्वतसरसीसरित्सरस्समुद्रवापीदीर्घिका— दिभेदात्। तत्र ग्रामरमणीयता यथा—
आभोगिनः किमपि संप्रति वासरान्ते सम्पन्नशालिखलपल्लवितोपशल्याः।
ग्रामास्तुषारभरबन्धुरगोमयाग्निधूमावलीवलयमेखलिनो हरन्ति॥ ७३॥
इह हि सजलकुल्यालीनचिल्लीप्रफुल्ल— स्तबक—शबलितोरुस्तम्बकुस्तुम्बुरूणि।