आदृता नखपदैः परिरम्भाश्चुम्बितानि घनदन्तनिपातैः।
सौकुमार्यगुणसम्भृतकीर्त्तिर्वाम एव सुरतेष्वपि कामः॥ ७०॥
८. अभीष्टप्राप्तावमानगर्वसम्भावनादरकृतो विकारो बिब्बोकः; यथा—
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा।
शैलराजतनया समीपगामाललाप विजयामहेतुकम्॥ ७१॥
९. सुकुमारतया करचरणाङ्गन्यासो ललितम्; यथा—(माघ. ७.१९)
गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा।
इतरदनतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम॥ ७२॥
१०. वक्तव्यसमयेऽपि वचसाऽनभिभाष्य क्रियानुष्ठानं विहृतम्; यथा—