४. भूषणादीनामस्थानप्रयोगो विभ्रमः; यथा—
चकार काचित् सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्॥ ६७॥
५. स्मितरुदितहसितादीनां हर्षादसकृदेकीकरणं किलकिञ्चितम्; यथा—
पाणिपल्लवविधूननमन्तः सीत्कृतानि नयनार्द्धनिमेषाः।
योषितां रहसि गद्गदवाचामस्त्रतामुपययुर्मदनस्य॥ ६८॥ (किराता. ९.५०)
६. इष्टजनकथायां तद्भावभावनोत्थितो विकारो मोट्टायितम्; यथा— (माघ. ९.६४)
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया॥ ६९॥
७. केशस्तनाधरादिग्रहणाद् दुःखेऽपि सुखबुद्धिचेष्टा कुट्टमितम्; यथा— (किराता. ९.४९)