११. परव्यसनेषु अप्रहर्षः ; यथा—(मवीच. ५.५६)
अप्राकृताभिजनवीर्ययशश्चरित्रान् प्रत्यक्छ्रियः कुलमहीधरभूरिसारान्।
एवंविधानपि निपात्य कटुर्विपाके सर्वङ्कषः कषति ही विषमः कृतान्तः॥ ६०॥
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडनप्रौढसख्ये।
प्रियजनविरहाधिव्याधिवेगं दधाने हतहदय! विशीर्य त्वं द्विधा न प्रयासि॥ ६१॥
१२. . . . . परापवादेषु न प्रवृत्तिः ; यथा—
दैवात् प्रसूते न हिमेतरांशोरूर्जस्वलैस्तैः सखिभिर्वृतेन।
उदारदेहद्युतिनाऽस्मदर्थे निरत्ययं तेन तमः प्रपन्नम्॥ ६२॥