अभिलषत उपायं विक्रमं कीर्त्तिलक्ष्म्योरनुयुगमरिसैन्यैरङ्कमभ्यागतस्य।
जनक इव शिशुत्वे संप्रियस्यैकसूनोर्न विनयमुपसेहे पाण्डवस्य स्मरामि॥ ५३॥
८. प्रमादस्खलितेष्वनुशयो यथा—
ततोऽपि च दहत्युच्चैस्रपाज्वाला तु मां परा।
यद् वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः॥ ५४॥
कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः सदा॥ ५५॥
९. सदाचारे(/ रि)ष्वादरो यथा—(उराच. २.२)
प्रियप्राया वृत्तिर्विनयमधुरो वाचि नियमः प्रकृत्या कल्याणी मतिरनवगीतः परिचयः।