मनोवाग्बुद्धिजारम्भाः क्रमेणैते प्रदर्शिताः।
अतः शरीरजारम्भप्रकारोऽयं प्रपञ्च्यते॥ ६१॥
मनोवाग्बुद्धिजन्मान आरम्भास्तु सहस्त्रशः।
भरतादिप्रणीतत्वात् किं त्विहैते न दर्शिताः॥ ६२॥
लीलादयोऽधर—कपोल—विकल्प—१हासै— र्भ्रूतारकापुटविचेष्टितवीक्षितानि ।
षट्त्रिंदेव च दृशो भरतप्रणीताः काव्यक्रियोपकरणार्थमथोद्ध्रियन्ते ॥ ६३॥
१. शरीरारम्भेषु इष्टजनानुकृतिर्लीला; यथा— (गास. ४.७८)
जं जं करेसि जं जं, च जंपसे जह तुमं णिअच्छेसि।