तं तं अणुसिक्खिरीए दीहो दिअहो ण संपडइ॥ ६४॥
(यद्यत् करोषि यद् यज्जल्पसि यथा त्वं निरीक्षसे।
तत्तदनुशिक्षणशीलाया दीर्घो दिवसो न संपद्यते॥)
२. नेत्रभ्रूवक्त्रकर्मणां विशेषेण लसनं विलासः; यथा—(मामा. १.२८)
सभ्रूविलासमथ सोऽयमितीव नाम सप्रत्यभिज्ञमिव मामवलोक्य तस्याः।
अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा स्मितसुधामधुराः कटाक्षाः॥ ६५॥
३. विभूषणादिनामनादरविन्यासो विच्छित्तिः; यथा—
अङ्गानि चन्दनरजःपरिधूसराणि ताम्बूलरागसुभगोऽधरपल्लवश्च।
अच्छाञ्जने च नयने वसनं तनीयः कान्तासु भूषणमिदं; विभवस्तु शेषः॥ ६६॥