भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 211 to 220 of 543 verses
पुरो वा पश्चाद् वा तदिदमविपर्यासितरसं रहस्यं साधूनामनुपधि विशुद्धं विजयते॥ ५६॥

यथा वा—(नीति. ६६)

असन्तो नाभ्यर्थ्याः, सुहृदपि न याच्यस्तनुधनः प्रिया वृत्तिर्न्याय्या, मलिनमसुभङ्गेऽप्यसुकरम्।

विपद्युच्‍चैः स्थेयं, पदमनुविधेयं च महतां सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम्॥ ५७॥

१०. परगुणेष्वमात्सर्यं यथा—

रथस्थमालोक्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभ्यनन्दत्।

वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः॥ ५८॥

. . (यथा वा)—(मवीच. १.३३)

यद‍् विद्वानपि तादृशोऽप्यभिजने धर्म्यात् पथो विच्युतः किं ब्रूमोऽत्र तदन्यदेव न वसन्त्येकत्र सर्वे गुणाः।

हेलानिर्जितषण्मुखाद् भगवतः श्रीजामदग्न्यादृते निर्विघ्‍नप्रतिपन्नविश्वविजयो वीरस्तु कस्तादृशः?॥ ५९॥

Showing 211 to 220 of 543 verses