एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु।
एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान्॥ ४९॥
५. आस्पदाभिमानो यथा—(बारा. ८.२)
त्वत्काङ्ककारविजये तव राम लङ्का सीता च ते पुनरियं भवतोऽस्तु दाराः।
मत्काङ्ककारविजये तु ममाधिपत्यं तस्यां च ते पुरि कलत्रजने च तत्र॥ ५०॥
६. पदाभिमानो यथा—(रघु. ४.१)
स राज्यं गुरुणां दत्तं प्रतिपद्याधिकं वभौ।
दिनान्ते निहितं तेजस्सवित्रेव हुताशनः॥ ५१॥
७. पित्रभिमानो यथा—(विक्र. ४.१९)
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ।