आभाति बालातपलिप्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ४७॥
आसीदभिमुखप्रेक्ष्यः स राज्यश्रीवधूवरः१॥ ४८॥
२. सर्वजनमनोहारित्वं सम्प्रियता; यथा—(मामा. २.१०)
तत उदयगिरेरिवैक एव स्फुरितगुणद्युतिसुन्दरः कलावान्।
इह जगति महोत्सवस्य हेतुर्नयनवतामुदियाय बालचन्द्रः॥ ४९॥
असौ विद्याधारः शिशुरपि विनिर्गत्य भवना— दिहायातः सम्प्रत्यविकलशरच्चन्द्रमधुरः।
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव॥ ५०॥
१. 'आकरो मृग्यः; मातृकासु उत्तरार्धं न लक्ष्यते नापि त्रुटिसूचकं चिह्नं वर्तते।' इति राघवः HOS. 'आमुक्ता॰' इत्यस्य पूर्वार्धस्येदमेव तूत्तरार्धम्।