तं तिअसकुसुमदामं हरिणा णिम्महिअसुरहिबहलपरिमलं।
अम्प—णइअं पि दूमिअपणइणिहिअएण रुप्पिणीए विइण्णं॥ ४३॥
(तत् त्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिबहुलपरिमलम्।
आत्मन आनीत/आत्मीयमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम्॥ )
१. एतस्यैव रूपान्तरमिदं जात्यादिभिश्चाभिमान इति यदुक्तं, तद्विभज्यते'—इति। पृ॰ १०२३ पं. १
इङ्गिताकारज्ञानाभिमानो यथा—(शाकु. २.११)
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम्।
विनयवारितवृत्तिरतोऽनया न विवृतो मदनो न च संवृतः॥ ४४॥
महारम्भताभिमानो यथा—(हवि.)