आर्द्रकेसरसुगन्धि ते मुखं मत्तमत्तनयनं स्वभावतः।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि! मदः करिष्यति॥ ४०॥
१६. 'जात्यादिभिरभिमानः' इति यदुक्तं१ तद् विभज्यते। धीरललितस्य हि द्वौ भेदौ— मध्यमः उत्तमश्च। तत्र— मध्यमस्य जात्यभिमानादयो धीरोद्धतेनैव व्याख्याताः, पादगुणसम्बन्धीद्धताया उभयत्र तुल्यत्वात्।
उत्तमस्य प्रज्ञाप्रभावदेशकालावबोधेङ्गिताकारज्ञानमहारम्भतासौहार्दाभिमानाः षडपरेऽपि संभवन्ति। स हि समस्तगुणसंपद्योगादुत्तम इत्युच्यते। तत्र—
प्रज्ञाभिमानो यथा—(मामा. ४.९)
प्रमथ्य क्रव्यादं मरणसमये रक्षितवतः परिष्वङ्गं लब्ध्वा तव कथमिवान्यत्र रमताम्।
तथाऽभुद् व्यापारः कमलनयनाया नयनयो— स्त्वयि व्यक्तस्नेहः स्तिमितरमणीयश्चिरमभूत्॥ ४१॥
प्रभावाभिमानो यथा—(शाकु. ६.४)
चूतानां चिरनिर्मि/र्गताऽपि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरवकं तत् कोरकावस्थया।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्॥ ४२॥