अइरा आणेमि तुहं अमआसव-लोल-भमर-लंघिअ-कुसुमं।
तिअस-गअ-दास-सीअर-तुसार-तण्णाअ-पल्लवं सग्गदुमं॥ ४५॥
(अचिरादानयामि तवामृतासवलोलभ्रमरलङ्घितकुसुमम्।
त्रिदशगजदानशीकरतुषारार्द्रितपल्लवं स्वर्गद्रुमम्॥ )
सौहार्दाभिमानो यथा—(मामा. ९.२८)
सुहृदि गुणनिवासे प्रेयसि प्राणनाथे कथमिव सहपांसुक्रीडितप्रौढसख्ये।
प्रियजनविरहाधिव्याधिखेदं दधाने हतहृदय! विदीर्य त्वं द्विधात्वं न यासि॥ ४६॥
धैर्यलालित्यहेतवश्चाभिनयेऽष्टौ विशेषगुणाः — सुवेषता, संप्रियता, यौवनं, स्थूललक्षता, प्रियंवदत्वं; लालित्यं, माधुर्यं, दृढभक्तिता। तेषु —
१. उदारनैपथ्यप्रयोगः सुवेषता; यथा—(रघु. ६.६०)
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन।