३. तारुण्यावतारो यौवनम्; यथा—(रघु. ३.३२)
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव।
रघुः क्रमाद् यौवनभिन्नशैशवं/वः पुपोष गाम्भीर्यमनोहरं वपुः॥ ५१॥
युवा युगव्यायतबाहुरंसलः कवाटवक्षाः परिणद्धकन्धरः।
वपुः—प्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददृश्यत॥ ५२॥
४. अनल्पदातृत्वं स्थूललक्षता; यथा—(रघु. ५.३०)
तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानात्।
दिदेश कौत्साय समस्तमेव पादं सुमेरोरिव वज्रभिन्नम्॥ ५३॥