नायकप्रतिकूलवृत्तिस्तदुच्छेदार्हः प्रतापाभिमानार्थसाहसादिगुणोत्कर्षी धीरोद्धत— प्रायः प्रतिनायकः। तत्र—
पात्रे पुरावर्तिनि विश्वनाथे क्षोदीयसि क्ष्मावलये च देये।
व्रीडास्मितं तस्य तदा तदासीच्चमत्कृतो येन स एव देवः॥ ५२॥
न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः॰॥ ५३॥
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया ? निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यापि/सि सम्भाविता।