अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो दोषं पश्यसि किं प्रिये! परिजनोपालम्भयोग्ये मयि॥ ५४॥
रथस्थमारुह्य रथाङ्गपाणिं स्थाने स्थिता श्रीरिति सोऽभ्यनन्दत्।
वैराणि कार्योपनिबन्धनानि निर्मत्सरा एव गुणेषु सन्तः॥ ५५॥
उत्तममध्यमकनिष्ठादिभेदाश्चैषामपि यथासम्भवमभ्यूहनीयाः।
अथ नायिकाप्रभेदाः प्रदर्श्यन्ते। साऽपि नायिका चतुर्धा— उदात्ता, उद्धता, ललिता, शान्ता च। धैर्यमासामविवक्षितम्; अधीराणा(मनायिकात्वात्)।
ता अपि प्रत्येकं पुनश्चतुर्धा — नायिका, उपनायिका, अनुनायिका, प्रतिनायिका चेति। तत्र—
जाणइ जाणावेउं अणुणअ—विद्दविअमाण—परिसेसं।