१४. स्ववर्णनासूत्कर्षो यथा—(विक्रमो. २.१६)
मया नाम स्थितं(जितं) यस्य त्वयाऽयं समुदीर्यते।
जयशब्दः सहस्राक्षादा/दगतः पुरुषान्तरम्॥ ३७॥
मरणसमये त्यक्ताशङ्कं प्रलापनिरर्गल— प्रकटितनिजस्नेहः सोऽयं सखा पुर एव ते।
सुतनु! विसृजोत्कम्पं संप्रत्यसावपि पाप्मनः फलमनुभवत्युग्रं पापः प्रतीपविपाकिनः॥ ३८॥
१५. चाटूक्तिषु प्रागल्भ्यं यथा—(कुसं. ५.८६)
अद्यप्रभृत्यनवमाङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते॥ ३९॥