प्राञ्जलिः प्रणयिनीः प्रसादयन् सोऽदुनोद् ग्रहणमन्थरः पुनः॥ ३३॥
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान/न्यपहाय शाखिनः।
पुरोऽभिसस्त्रे सुरसुन्दरीजनैः यथोत्तरेच्छाऽपि/वि गुणेषु कामिनः॥ ३४॥
१३. दुर्लभेष्वाकाङ्क्षा यथा—(रघु. १९.२९)
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः।
वर्तते स्म स कथञ्चिदालिखन्नङ्गुलिक्षरणसन्नवर्तिकः॥ ३५॥
अपेतव्याहारं धुतविविधशिल्पव्यतिकरं करस्पर्शारम्भप्रगलितदुकूलान्तशयनम्।
मुहुर्बद्धोत्कम्पं दिशिदिशि मुहुः प्रेरितदृशो— रहल्यासुत्राम्णोः क्षणिकमिह तत् सङ्गतमभूत्॥ ३६॥