वन्या/वन्द्यास्ते ह्यविचारणीयचरितास्तिष्ठन्तु हुं वर्तते सुन्दीस्त्रीदमनेऽप्यकुण्ठयशसो लोके महान्तो हि ये।
यानि त्रीणि/ण्यकुतोमुखान्यपि पदान्यासन् खरायोधने यद्वा कौशलमिन्द्रसूनुदमने तत्राप्यभिज्ञो जनः॥ ३५॥
११. परव्यसनेषु प्रहर्षो यथा—
उपतास्तु शत्रूणां स्वयमन्येन वा कृतः।
रतिं करोति महतीमपकारोऽपकारिणाम्॥ ३६॥
चूर्णिताशेषकौरव्यः क्षीबो दुश्शासनासृजा।
भङ्क्ता सुयोधनस्योर्वोर्भीमोऽयं शिरसाऽञ्चति॥ ३७॥
१२. परापवादेषु प्रीतिर्यथा—(मवीच. ३.१९)
मातुरेव शिरश्छेदो गर्भाणां चावकर्तनम्।