राजानो मुनयश्चैते महिम्नैव महाक्षमाः।
क्षमन्तां नाम, न त्वेव शतानन्दः क्षमिष्यते॥ २९॥
८. स्खलितेषु नानुशयो यथा—
क्रीडतां मृगवनेषु धन्विनां रूपकोटिकदनेऽप्यकम्पिनाम्।
(का प्रिया भवति का च विप्रिया सुन्दरीषु बत कामकामिनाम्॥ ३०॥१)
आशस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने— स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः।
प्रौढानेकधनुर्धरादिविजयश्रान्तस्य चैकाकिनो बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात्॥ ३१॥
९. सदाचारेष्वनादरो यथा—(किराता. ३.१४)