भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत्॥ ३५॥
राजाऽस्य जगतो माता पिता भ्राता सुहृद् गुरुः।
सखाऽधिदैवतं धाम स्थाम जीवितमुच्यते॥ ३६॥
धर्म एव द्रुतो/हतो हन्ति धर्मो रक्षति रक्षितः।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत्॥ ३७॥
(खण्डितम्) . . . . यथा—(मनु. ९.१३८)
पुन्नाम्नो नरकादस्मात् त्रायते पितरं सुतः।