तेन पुत्त्र इति प्राप्तो/प्रोक्तो मनुः स्वायम्भुवोऽब्रवीत्॥ ३८॥
स्वकीया नायिका। सा त्रिधा ॰ ॰ ॰ ॰ चोत्तमा। तत्रोढा धर्मकर्मोपयोगित्वात् (॰ ॰ ॰ ॰) सा भेदौ (?) चरतां धर्ममिति च ॰ ॰ ॰ ॰ तात् उत्तमा च तदधिक ॰ ॰ ॰गहेतु ॰ ॰ ॰ ात्। परस्परानुरागो हि दारकर्मणि परार्ध्य (॰ ॰ ॰ ) मङ्गलं गीतश्च। अयमर्थः ॰ ॰ ॰ तिनमात्मानं मन्येत तां, तथाऽपि ॰ ॰ येत्ं 'यस्यां वाङ्मनश्र्चक्षुषोरनुबन्धः तस्यामृद्धिः, नेतरामाश्रयेत' इति तस्या क्रियां अनन्यपूर्वायां शास्त्रतोऽधिगतायां धर्मोऽर्थः पुत्र्ञः संबन्धः, शुद्धिः, अनु ॰ ॰ क्षता, रतिः। न तु परतयासुरभूपुनर्भूवेश्यासु। यथोच्यते, 'धर्मविरुद्धः कामः परस्त्रीषु। अर्थविरुद्धो वेश्यासु पुनर्भूषु च। तस्मात् कुलस्त्रीष्वेव कामं कामयेतेति न ॰ ॰ यथा कामसेवा (?) हरन्ति ॰ ॰। स्वकीयैव नायिका धर्मश्रृङ्गारम्। यथोच्यते—
प्रोषितायां व्रजन्त्यस्तं प्रजा धर्मो यशः सुखम्।
निवर्तन्ते निवृत्तायमहो! बन्धुः कुलङ्गना॥ ३९॥
.......धीरोदात्तश्च नायक इति। १प्राक्प्रतिपादितप्रवृत्तिनिवृत्तिनियमरूप—
धर्मकर्मत्रैविध्ये तस्यैव श्रुतिस्मृतिवाक्यानतिक्रमाभिमान ॰ ॰ प्रवृत्तिपरिग्रहप्रस्तारात् अष्टप्रकपरिग्रहादसाधारणसाधारणश्च। तदेतत् वृत्तिप्रवृत्तिरीतिनायिकानायकप्रभेद— जातमेतल्लक्षणोदाहरणैः पूर्वमेव१ निर्णीतम्।
अथेदानीं नायकपदे व्यपदेशहेतुः विचार्यते। तद्धि इन्द्रियाविकारकारणं चित्तधर्मः, येन सता सत्यपि गर्वदिहेतौ जात्यादिगुणसमूहे नायकस्य नोत्सेकादयो जायन्ते। तच्चतुर्धा, उदात्तम्, उद्धतं, ललितं शान्तं च।
तत्र धर्मशृङ्गाराधिकारिणो धीरोदात्तस्य उदात्तः; यत्प्रभावात् अभ्युदयादिभिर्नोत्सेकः, शोकादिभिर्न वैक्लव्यम्, व्यसनादिभिर्न दीनत्वम्, रागादिभिर्न धर्मबाधा। चरितेषु उत्तमस्पर्धा, नीचेष्वर्थेषु जुगुप्सा, शक्तिसद्भावे क्षान्तिः, प्रमादस्खलितेष्वनुशयः, सदाचारिष्वादरः, परगुणेष्वमात्सर्यम, परव्यसनेषु न प्रहर्षः, परापवादेषु न प्रवृत्तिः, अस्थानेषु न क्रोधः, प्रारम्भेषु नानिर्वाहः, कर्मतिशयैर्न विस्मयः, जात्यादिभिर्नाभिमानः, इति॥ तत्र