आमुक्ताभरणः स्त्रग्वी हंसचिह्नदुकूलवान्।
आसीदतिशयप्रेक्ष्यः स राजश्रीवधूवरः॥ ३३॥१
सा तु पौरस्त्यैः प्रवर्तितेति तेषु च प्रायो नाचारविप्लव इति। सा पौरस्त्येऽपि धर्मश्रृङ्गाराङ्गम्॥
पा़ञ्चाली रीतिः; श्रुतिस्मृतिवाक्यानुरूपसन्दर्भत्वात्। यतो यदनतिसमासम्, अनतिस्फुटबन्धम्, उपचारवृत्तिमत्, पादानुप्रासप्रायं, योगरूढिमद् वचः, सा पाञ्चाली। सा च श्रुतिस्मृतिवाक्येषु प्रायो दृश्यत इति धर्मश्रृङ्गाराङ्गम्। यतः श्रुतौ, 'विश्वाहारः२' 'विश्वतश्चक्षुः'३ इति नातिदीर्घः समासः। '४ समिधाऽग्निम्', 'अग्निमीले५' इति नातिश्लथः अकठोरश्च बन्धः। 'आदित्यो वै यूपः६', 'सुपर्णोऽसि गरुत्मन्७' इत्यादौ पदे भूयान् उपचारः। 'शं नः८' 'इन्द्राग्निं, 'द्रविणोदोः९' इत्यादौ प्रकाश एव पादानुप्रासः। 'आदित्या रुद्रा वसवः१०' इत्यादौ तु ब्राह्मणव्याकरणनिरुक्तयुक्तिभिः न क्वचिन्न योगरूढिः। एवं स्मृतिवाक्येष्वपि॥ तत्र
१. आकरो मृग्यः इति HOS राघवः २. मूलं मृग्यम् ३. तै. नारायणानुवाके ४. तै. व्रा. अष्टके ५. ऋक्. १.१.१ ६. अष्टके २.६६ ७. तै.सं. ४.१.१० ८. तै. उप. १.१ ९. तै. उप. १०. तै.सं. ७.३.१३
बलिकर्म स्वधा होमः स्वाध्यायोऽतिथिसत्क्रिया।
पितृभूतपरब्रह्ममनुष्याणां महामखाः॥ ३४॥
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणिः।