भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 111 to 120 of 543 verses
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव।

वशिनां हि परपरिग्रहसंपर्कपराङ्‍मुखी वृत्तिः॥ ३०॥

यथा वा नियमरूपे—(नीति. ७४)

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम्।

अद्येव वा मरणमस्तु युगान्तरे वा न्याय्यात् पथः प्रविचलन्ति पदं न धीराः॥ ३१॥

तत्र भारती वृत्तिः, पौरस्त्या प्रवृत्तिः, पाञ्चाली रीतिः, स्वकीया नायिका, धीरोदात्तश्च नायक इति। तत्र—

भारती वृत्तिः; तदनुरूपस्वरूपाङ्गत्वात्। तथा हि— (नाशा. २२.२५)

या वाक्प्रधाना नृवरप्रयोज्या स्त्रीवर्जिता संस्कृतपाठ्ययुक्ता।

स्वनामाधेयैर्भरतैः, प्रयोज्या सा भारती नाम भवेत् तु वृत्तिः॥ ३२॥

तदङ्गानि प्ररोचना, प्रस्तावना, वीथी, प्रहसनमिति। सा तु—

Showing 111 to 120 of 543 verses