निवर्तिष्ये सोऽयं भरतकृतरक्षां निजपुरीं समाः सम्यङ् नीत्वा वनभुवि चतस्त्रश्च दश च॥ २४॥
वृद्धत्वदोषात् प्रशमाद् भयाद् वा यत्सत्यमिष्टं मम नैव युद्धम्।
रक्षोव्रणाष्टापददन्तुरन्तु यन्मे वपुः क्षत्रियताऽत्र हेतुः॥ २५॥१
१०. गोब्राह्मणार्थे प्राणादिपरित्यागः स/गवार्थो यथा—(रघु. २.४५)
स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद।
दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षैः॥ २६॥
१. पक्षो वृणाष्टापददन्ततन्तु यन्मे कृते — राघवः HOS. वृणीयनाष्टापदमात्रकं तु यन्मे कुतः — जोशेरः। मूलं त्वस्मत्कल्पितम्।
ब्राह्मणार्थे यथा—(रघु. २.४४)
मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः।