४. नानास्त्रयुद्धनिद्धादिभिः ससंरम्भसंप्रहारः संफेट इति।
उढ्रमागधी प्रवृत्तिः। धीरोद्धतचेष्टानुरूपविलेपनमाल्यभूषणोल्बणविशेष— वेषत्वादर्थश्रृङ्गारः। यथा—
आर्द्राः स्त्रजो मलयजोदकमच्छमेकं वासश्च वासवरिपुर्ममृषेऽलसाङ्गः।
सञ्चिक्लिशे कलितरुद्रनिकेतनाद्रिभरिण तत्क्षणमसौ मणिभूषणानाम्॥ १५॥
गौडीया रीतिः, दीर्घविद्धोद्धतस्वरूपवाक्यत्वात्। यतो यदतिदीर्घसमासम्, अनतिस्फुटारक्षरबन्धं, नात्युपचारवृत्तिमत्, पादानुप्रासयोगि, योगवृत्तिपरम्परागर्भवचः, सा गौडीया। सा च प्रायोऽर्थशास्त्रेषु धीरोद्धतचेष्टासु चावलोक्या, इत्यर्थश्रृङा्गराङ्गम्।
सर्वा नायिकाः; अर्थश्रृङ्गाराधिकारिणो धीरोद्धतनायकस्यानवस्थितचित्तत्वात् धर्मार्थबाधेन कामसेवाभ्युपगमात्। क्रियामिथ्यायोगाच्च नैका नायिकेत्यतः सर्वा अर्थश्रृङ्गाराङ्गम्।
धीरोद्धतश्च नायक इति। यत्र हि त्रयोऽधिकारिणः (धीरोदात्तो), धीरोद्धतो धीरललितश्च, तत्र यथोक्तानां विद्याद्यर्थानामधर्मकामबाधया यथा वा अर्जुनो धीरोदात्तः प्रवर्तत इत्यनुपदेश्यः धीरप्रशान्तोऽपि तुल्यत्वादनुपदेश्यः। धीरललितस्तु धर्मार्थावभिभूय काम एव प्रवर्तते। सोऽप्यनुपदेश्यः। धीरोद्धतस्तु धर्मकामावनपेक्षमाणः सर्वदाऽर्थमेवानुरुध्यत इत्यर्थश्रृङ्गारे तदधिकारित्वेनास्य व्यपदेशः। प्रागुक्तविद्याद्यार्जने तदुपायपूर्विकायां प्रवृत्तौ तस्यैव तदनतिक्रमाभिमानात् सगुणप्रकृतिप्रवृत्तिपरिग्रह— भेदाच्चतुश्चत्वारिंशत्प्रकारः।
तत्र गुणभोग/भेदजात्यादिगुणसंपदपादाऽर्धहान्या मध्यमः, कनिष्ठश्च। प्रकृतितस्तामसः, प्रवृत्तितः अनुकूलो, दक्षिणश्शठो धृष्टश्च; परिग्रहादसाधारणः साधारणश्च। तदेतत्प्रवृत्तिर्वृत्तिरित्यादिकमेतल्लक्षणोदाहरणैः पूर्वमेव निर्णीतम्।१ इदानीं नायकव्यपदेशहेतुर्धैर्यं विचार्यते।
तत्र धीरोद्धतस्य धैर्यमुद्धतं भवति। यत्प्रभावादभ्युदयादिभिरुत्सेकः, शोकादिभिर्वैक्लव्यं, व्यसनादिभिर्दीनत्वं, रागादिभिर्धर्मबाधा, चरितेष्वसदृशस्पर्धा, नीचार्थेष्वप्यजुगुप्सा, अशक्तावेव क्षान्तिः, स्खलितेषु नानुशयः, सदाचारेष्वनादरः, परगुणेषु मात्सर्यं, परव्यसनेषु प्रहर्षः, परापवादेषु प्रीतिः, अस्थानेषु क्रोधः, प्रारब्धेष्वनिर्वाहः कर्मातिशये विस्मयः, स्वजात्यादिभिश्चाभिमान इति। तत्र—