मातर्मातर्दलचति हृदयं ध्वंसते देहबन्धः शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा विष्वङ््मोहः स्थगयति कथं मन्दभाग्यः करोमि॥ १९॥
१. पञ्चदशे प्रकाशे पृ. ८६१–८७८।
३. व्यसनादिभिर्दैन्यं यथा—(मवीच. ५.३०)
विश्लिष्टभागधेयानां द्वयी नः परमा गतिः।
धर्मः प्रकृष्यमाणो वा गोप्ता धर्मस्य वा भवान्॥ २०॥
पुण्या ब्राह्मणजातिरन्वयगुणः शास्त्रं/श्लाघ्यं चरित्रं च मे येनैकेन हृतान्यमूनि हरता चैतन्यमात्रां मयि।
एकः सन्नपि भूरिदोषगहनः सोऽयं त्वया प्रेयसा वत्स! ब्राह्मणवत्सलेन शमितः क्षेमाय दर्पामयः॥ २१॥
४. रागादिभिर्धर्मबाधा यथा—(रघु. ९.७४)