उपैतु तावद् युधि गृध्रकामिनीनिरत्ययाश्लेषविधेयतामुरः॥ २५॥
६. नीचार्थेष्वप्यजुगुप्सा यथा—(उरा. २.४)
पत्नीं क्षत्रियपुङ्गवस्य शमिनः स्वीकर्तुमिच्छन् गुणै— राकृष्टो दशकन्धरः स्वसृधिया धीस्तावदेषा मम।
सत्यं नाम तदस्तु तत्र बलवद् विद्वेषिणः किं क्षमं मायासाध्यमिदं विहाय सहजं वीरक्रमं विक्रमम्॥ २६॥
ततो दशास्यः स्मरविह्वलात्मा चारप्रकाशीकृतशत्रुशक्तिः।
विमोह्य मायामयराममूर्ध्ना सीतामनीकं प्रजिघाय योद्धुम्॥ २७॥
७. अशक्तावेव क्षान्तिर्यथा—(मवीच. ३.२७)
भृगोर्वंशे जातस्तपसि च किलायं स्थित इति द्विषत्यप्यस्माभिश्चिरमिह तितिक्षैव हि कृता।
यदा भूयोभूयस्तृणवदवधूनोत्यनिभृत— स्तदा विप्रेऽप्यस्मिन् नमतु धनुरन्याऽस्ति न गतिः॥ २८॥