भोजशृङ्गारप्रकाशः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

भोजशृङ्गारप्रकाशः

Enable Parallel


Showing 121 to 130 of 638 verses
नृपतेः प्रतिषिद्धमेव तत् कृतवान् पङ्क्तिरथो विलङ्घय यत्।

अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः॥ २२॥

यथा वा—(वेसं. ३.११)

अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा।

तच्छुरुत्वाऽसौ दयिततनयः प्रत्ययात् तस्य राज्ञः शस्त्राण्याजौ नयनसलिलं चेति तुल्यं मुमोच॥ २३॥

५. चरितेषु तेष्वसदृशस्पर्धा यथा—(हनुमन्ना. १२.२)

क्षुद्राः! सन्त्रासमेनं विजहितहरयो भिन्नशक्रेभकुम्भा युष्माद्गात्रेषु लज्जां दधति परममी सायकाः संपतन्तः।

सौमित्रे! तिष्ठ पात्रं त्वमसि न हि रुषां, नन्वहं मेघनादः किञ्चित्संरम्भलीलानियमितजलधिं राममन्वेषयामि॥ २४॥

यथा वा—

तदुन्नतं शार्ङ्गधरस्य रुक्मिणीस्तनाभिघातप्रविलुप्‍तचन्दनम्।

Showing 121 to 130 of 638 verses