अनतिसुकुमारबन्धा यथा—(काव्याद. १. ७०)
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि॥ ३१॥
नात्युपचारवती यथा—(शाकु. २.१०)
अनाघ्रातं पुष्पं, किसलयमलूनं कररुहै— रनाविद्धं रत्नं, मधु नवमनास्वादितरसम्।
अखण्डं पुण्यानां फलमपि च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः॥ ३२॥
लाटीयानुप्रासो यथा—(मेघ. ९९)
अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्त्रेणास्त्रद्रवमविरतोत्कण्ठमुत्कण्ठितेन ।
उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः॥ ३३॥
योगरूढिमती यथा—(रा. च. १.१८)