१. अभ्युदयादिभिर्नोत्सेको यथा—(रघु. १५.२७)
तस्य संस्तूयमानस्य चरितार्थैस्तपरिस्विभिः।
शुशुभे विक्रमोदग्रं व्रीडयाऽवनतं शिरः॥ ४०॥
का ते स्तुतिः स्तुतिपथादतिरिक्तधाम्नः किं दीयतामविकलक्षितिदायिनो वा।
शान्तस्य किं परिजनेन मुनेस्तथापि पुत्रैः समं दशरथोऽद्यं वशंवदस्ते॥ ४१॥
२. शोकादिभिर्न वैक्लव्यं; यथा—(उराच. ३.३०)
इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा प्रियाशोको जीवं कुसुमामिव घर्मो ग्लपयति।
स्वयं कृत्वा त्यागं विलपनविनोदोऽप्यसुलभ— स्तदद्याप्युच्छ्वासो भवति; ननु लाभो हि रुदितम्॥ ४२॥