२. प्रथमसङ्गमे भयावसानं सम्भोगाश्रयं वाक्यादिकर्म नर्मस्फञ्जः। यथा—
प्राप्ताऽसौ वृषपर्वणः प्रियसुता सङ्केतषण्डं सखे!॥ ४७॥ (द्र.१२.१२५)
३. आविर्भूताभिलाषानुभावभावयोरकाण्ड एव सम्भोगभङ्गो नर्मस्फोटः। यथा—
कथय किमिह बाले! का त्वमित्युल्लपंस्तां॥ ४८॥ (पृ. ९७३)
४. कार्यहेतोः स्वरूपविज्ञानादिप्रच्छादनं नर्मगर्भः। यथा—
अथाजिनाषाढधरः॥ ४९॥ (कुसं. ५.३०; पृ.७१८)
या सात्त्वतेनेह गुणेन युक्ता॥ ५०॥ (नाशा. २०.३६, श्रृ.१२.३५, पृ.६९९) तस्या अपि चत्वार्येवाङ्गानि—उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति।
१. परस्परासूयया अर्थेषूत्थानमुत्थापकः। यथा—