प्रहर नमतु चापं प्राक्प्रहारप्रियोऽहं॥ ५१॥ (मवीच. २.४९, श्रृ.१२.१२८, पृ.७१८)
२. प्रस्तुतार्थत्यागादन्यार्थभजनं परिवर्तकः। यथा—
मुनिमभिमुखतां निनीषवो याः॥ ५२॥ (किराता. १०.४० पृ.७१९)
३. सदसि नानावाक्यैर्मिथोऽधिक्षेपः संलापकः। यथा—(वेसं. ३.४०)
कथमपि न निषिद्धो दुःखिना भीरुणा वा॥ ५३॥ (पृ. ७१९)
४. कार्यमन्त्रार्थप्रभावदैवादिभिः सङ्घातभेदः सङ्घात्यकः। यथा—
अपश्यद्भिरिवेशानं॥ ५४॥ (किराता. १५.२, पृ.७१९)
वेषविन्यासक्रमः प्रवृत्तिः।
सा चतुर्धा पौरस्त्यौढ्रमागधी—दाक्षिणात्या—आवन्त्यादिभेदात्। तत्र—